|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.211. अध्यायः 211
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति गरुडेनात्मानं प्रत्युक्तश्रीभगवन्महिमानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
* युधिष्ठिर उवाच। 12-211-0x(6080)(73524)
देवानुरमनुष्येषु ऋषिमुख्येषु वा पुनः।
विष्णोस्तत्वं यथाख्यातं को विद्वाननुवेत्ति तत्॥ 12-211-1(73525)
एतन्मे सर्वमाचक्ष्व न मे तृप्तिर्हि तत्वतः।
वर्तते भरतश्रेष्ठ सर्वज्ञोऽसीति मे मतिः॥ 12-211-2(73526)
भीष्म उवाच। 12-211-3x(6081)
कारितोऽहं त्वया राजन्यदॄत्तं च पुरा मम।
गरुडेन पुरा मह्यं संवादोऽभूभृतोत्तम्॥ 12-211-3(73527)
पुराहं तप आस्थाय वासुदेवपरायणः।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेवच।
गङ्गद्वीपे समासीनो दशवर्षाणि भारत॥ 12-211-4(73528)
माता च मम ता देवी जननी लोकपावनी।
समासीना समीपे मे रक्षणार्थं ममाच्युत॥ 12-211-5(73529)
तस्मिन्कालेऽद्भुतः श्रीमान्सर्ववेदमयः प्रभुः।
सुपर्णः पततांश्रेष्ठो मेरुमन्दरसन्निभः।
आजगाम विशुद्धात्मा गङ्गां द्रष्टुं महायशाः॥ 12-211-6(73530)
तमागतं महात्मानं प्रत्युद्गम्याहमर्थितः।
प्रणिपत्य यथान्यायं कृताज्जलिरवस्थितः॥ 12-211-7(73531)
सोऽपि देवो महाभागामभिनन्द्य च जाह्नवीम्।
तथा च पूजितः श्रीमानुणेपाविशदासने॥ 12-211-8(73532)
ततः कथान्तरे तं वै वचनं चेदमव्रवम्।
वेदवेद महावीर्य वैनतेग महाबल॥ 12-211-9(73533)
नारायणं हृषीकेशं सहमानोऽनिशं हरिम्।
जानासि तं यथा वक्तुं यादृग्भूतो जनार्दनः।
ममापि तस्य सद्भातं वक्तुमर्हसि सत्तम॥ 12-211-10(73534)
गरुड उवाच। 12-211-11x(6082)
शृणु भीष्म यथान्यायं पुरा त्वमिह सत्तमाः।
अनेके पुनयः सिद्धा मानसोत्तरवासिनः॥
पगच्छुर्मा महाप्राज्ञा वासुदेवपरायणाः॥ 12-211-11(73535)
पक्षीन्द्र वासुदेवस्य तत्वं वेत्सि परं पदम्।
स्वसा सयो न तस्यास्ति सन्निकृष्टप्रियोपि च॥ 12-211-12(73536)
तेषामहं वचः श्रुत्वा प्रणिपत्य महाहरिम्।
अब्रवं च यथावृत्तं मम नारायणस्य च॥ 12-211-13(73537)
शृणुध्वं मुनिशार्दूला हृत्वा सोममहं पुरा।
आकाशे पतमानस्तु वाक्यं तत्र शृणोमि वै॥ 12-211-14(73538)
साधुसाधु महाबाहो प्रीतोस्मि तव दर्शनात्।
वृणीष्व वचनं मत्तः पक्षीन्द्र गरुडाधुना॥ 12-211-15(73539)
त्वामहं भक्तितत्वज्ञो ब्रवै वचनमुत्तमम्।
इत्याह स्म ध्रुवं तत्र मामाह भगवान्पुनः॥ 12-211-16(73540)
ऋषिरस्मि महावीर्य न मां जानाति वा मयि।
असूयति च मां मूढ तच्छ्रुत्वा गर्वमास्थितः॥ 12-211-17(73541)
अहं देवनिकायानां मध्ये वचनमब्रवम्।
ऋषे पूर्वं वरं मत्तस्त्वं वृणीष्व ततो ह्यहम्।
वृणे त्वत्तो वरं पश्चादित्येवं मुनिसत्तमाः॥ 12-211-18(73542)
तस्मात्त्वां भगवान्देवः श्रीमाञ्श्रीवत्सलक्षणः।
अद्य पश्यति पक्षीन्द्र वाहनं भव मे सदा।
वृणेऽहं वरमेतद्धि त्वत्तोऽद्य पतगेश्वर॥ 12-211-19(73543)
तथेति तं वीक्ष्य मातामनहंकारमास्थितम्।
जेतुकामो ह्यहं विष्णुं मायया मायिनं हरिम्॥ 12-211-20(73544)
त्वत्तो ह्यहं वृणे त्वद्य वरं ऋषिवरोत्तम।
तवोपरिष्टात्स्थास्यामि वरमेतत्प्रयच्छ मे॥ 12-211-21(73545)
तथेति च हसन्प्राह हरिर्नारायणः प्रभुः।
ध्वजं च मे भव सदा त्वमेव विहगेश्वर।
उपरिष्टात्स्थितिस्तेऽस्तु मम पक्षीन्द्र सर्वदा॥ 12-211-22(73546)
इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः।
सहस्रचरणः श्रीमान्सहस्रादित्यसन्निभः॥ 12-211-23(73547)
सहस्रशीर्षा पुरुषः सहस्रनयनो महान्।
सहस्रमकुटोऽचिन्त्यः सहस्रवदनो विभुः॥ 12-211-24(73548)
विद्युन्मालानिभैर्दिव्यैर्नानाभरणराजिभिः।
क्वचित्संदृश्यमानस्तु चतुर्बाहुः क्वचिद्वरिः॥ 12-211-25(73549)
क्वचिज्ज्योतिर्मयोचिन्त्यः क्वचित्स्कन्धे समाहितः।
एवं मम जयन्देवस्तत्रैवान्तरधीयत॥ 12-211-26(73550)
ततोऽहं विस्मयापन्नः कृत्वा कार्यमनुत्तमम्।
अस्याविमुच्य जननीं मया सह मुनीश्वराः॥ 12-211-27(73551)
अचिन्त्योऽयमहं भूयः कोऽसौ मामब्रवीत्पुरा।
कीदृग्विधः स भगवानिति मत्वा तमास्थितः॥ 12-211-28(73552)
अनन्तरं देवदेवं स्कन्धे मम समाश्रितम्।
अद्राक्षं पुण्डरीकाक्षं वहमानोऽहमद्भुतम्॥ 12-211-29(73553)
अवशस्तस्य भावेन यत्र यत्र स चेच्छति।
विस्मयापन्नहृदयो ह्यहं किमिति चिन्तयन्।
अन्तर्जलमहं सर्वं वहमानोऽगमं पुनः॥ 12-211-30(73554)
सेन्द्रैर्देवैर्महाभागैर्ब्रह्माद्यैः कल्पजीविभिः।
स्तूयमानो ह्यहमपि तैस्तैरभ्यर्चितः पृथक्॥ 12-211-31(73555)
क्षीरोदस्योत्तरे कूले दिव्ये मणिमये शुभे।
वैकर्णनाम सदनं हरेस्तस्य महात्मनः॥ 12-211-32(73556)
दिव्यं तेजोमयं श्रीमदचिन्त्यममरैरपि।
तेजोनिलमयैः स्तम्भैर्नानासंस्थानसंस्थितैः॥ 12-211-33(73557)
विभूषितं हिरण्येन भास्वरेण समन्ततः।
दिव्यं ज्योतिः समायुक्तं गीतवादित्रशोभितम्॥ 12-211-34(73558)
शृणोमि शब्दं तत्राहं न पश्यामि शरीरिणम्।
न च स्थलं न चान्यच्च पादयोस्तं समन्ततः।
वेपमानो ह्यहं तत्र विष्ठितोऽहं कृताञ्जलिः॥ 12-211-35(73559)
ततो ब्रह्मादयो देवा लोकपालास्तथैव च।
सनन्दनाद्या मुनयस्तथाऽन्ये परजीविनः॥ 12-211-36(73560)
प्राप्तास्तत्र सभाद्वारि देवगन्धर्वसत्तमाः।
ब्रह्माणं परतः कृत्वा कृताञ्जलिपुटास्तदा॥ 12-211-37(73561)
ततस्तदन्तरे तस्मिन्क्षीरोदार्णवशीकरैः।
बोध्यमानो महाविष्णुराविर्भूत इवाबभौ॥ 12-211-38(73562)
फणासहस्रमालाढ्यं शेषमव्यक्तसंस्थितम्।
पश्याम्यहं मुदाऽऽकाशे यस्योपरि जनार्दनम्॥ 12-211-39(73563)
दीर्घवृत्तैः समैः पीनैः केयूरवलयोज्ज्वलैः।
चर्तुभिर्बाहुभिर्युक्तं------------॥ 12-211-40(73564)
पिताम्बरेण संवीतं कौस्तुभेन विराजितम्।
वक्षस्थलेन संयुक्तं पद्मयाऽधिष्ठितेन च॥ 12-211-41(73565)
ईषदुन्मीलिताक्षं तं सर्वकारणकारणम्।
क्षीरोदस्योपरि बभौ नीलाभ्रं परमं यथा॥ 12-211-42(73566)
न कश्चिद्वदते कश्चिन्न व्याहरति कश्चन।
ब्रह्मादिस्तम्बपर्यन्तं माशब्दमिति रोषितम्।
भ्रुकुटीकुटिलाक्षास्ते नानाभूतगणाः स्थिताः॥ 12-211-43(73567)
कृत्वा च प्रस्थितं तत्र जगतां हितकाम्यया।
गच्छध्वमिति मामुक्त्वा गरुडेत्याह मां ततः॥ 12-211-44(73568)
ततोऽहं प्रणिपत्याग्रे कृताञ्जलिरवस्थितः।
आगच्छेति च मामुक्त्वा पूर्वोत्तरपथं गतः॥ 12-211-45(73569)
अतीव मृदुभावेन गच्छन्निव स दृश्यते।
अयुतं नियुतं चाहं प्रयुतं चार्बुदं तथा।
पतमानोऽहमनिशं योजनानि ततस्ततः॥ 12-211-46(73570)
ननु तत्वमहं भक्तो विष्ठितोस्मि प्रशास्तु नः।
आगच्छ गरुडेत्येवं पुनराह स माधवः॥ 12-211-47(73571)
ततो भूयो ह्यहं पातं पतमानो विहायसम्।
आजगाम ततो घोरं शतकोटिसमावृतम्॥ 12-211-48(73572)
तामसानीव भूतानि पर्वताभानि तत्र ह।
समानानीव पद्मानि ततोऽहं भीत आस्थितः॥ 12-211-49(73573)
ततो मां किंकरो घोरः शतयोजनमायतम्।
निगृह्य पाणिना तस्माच्चिक्षेप च स लोष्टवत्॥ 12-211-50(73574)
तत्तमोऽहमतिक्रम्य ह्यापं चैव विहायसम्।
हुङ्कारघोपं तत्राहमशनीपातसन्निभान्।
कर्णमूले ह्यशृण्वन्तस्ततो भूतैः समास्थितः॥ 12-211-51(73575)
ततोऽहं देवदेवेश त्राहि मां पुष्करेक्षण।
इत्यब्रवमहं तत्र ततो विष्णुरुवाच माम्॥ 12-211-52(73576)
सुषिरस्य मुखे कश्चिन्मां चिक्षेप भयङ्करः।
अतीतोऽहं क्षणादग्निमपश्यं वायुमण्डलम्॥ 12-211-53(73577)
आकाशमिव संप्रेक्ष्य क्षेप्तुकाममुपागतः।
तत्राहं दुःखितो भूतः क्रोशमानो ह्यवस्थितः॥ 12-211-54(73578)
क्षणान्तरेण घोरेण क्रुद्धो हि परमात्मना।
स्वपक्षराजिना दृष्ट्वा मां चिक्षेप भयङ्करः॥ 12-211-55(73579)
-----गरुडकुलं सहस्रादित्यसन्निभम्।
मां दृष्ट्वाऽप्यथ संस्थेऽथ ह्यल्पकालोऽतिदुर्बलः॥ 12-211-56(73580)
अहो विहङ्गमः प्राप्त इति विस्मयमानसाः।
मां दृष्ट्वोचुरहं तत्र पश्यामि गरुडध्वजम्॥ 12-211-57(73581)
सहस्रयोजनायामं सहस्रादित्यवर्चसम्।
सहस्रगरुडारूढं गरुडास्ते महाबलाः॥ 12-211-58(73582)
अत्याश्चर्यमिमं देव वपुषाऽस्मत्कुलोद्भवः।
स्वल्पप्राणः स्वल्पकायः कोसौ पक्षी इहागतः॥ 12-211-59(73583)
तच्छ्रुत्वाऽहं नष्टगर्वो भीतो लज्जासमन्वितः।
स्वयं बुद्ध्श्च संविग्नस्ततो ह्यशृणवं पुनः॥ 12-211-60(73584)
आगच्छ गरुडेत्येव ततोऽहं यानमास्थितः।
परार्ध्यं च ततो गत्वा योजनानां शतं पुनः।
तत्रापश्यमहं यो वै ब्रह्माणं परमेष्ठिनम्॥ 12-211-61(73585)
तत्रापि चापरं तत्र शतकोटिपितामहान्।
पुनरेहीत्युवाचोच्चैर्भगवान्मधुसूदनः॥ 12-211-62(73586)
महाकुलं ततोऽपश्यं प्रमाणानि तमव्ययम्।
कपित्थफलसंकाशमन्धकारैः समाश्रितम्॥ 12-211-63(73587)
तत्र स्थितो हरिः श्रीमानण्डमेकं बिभेद ह।
महद्भूतं हि मां गृह्य दत्त्वा वै प्राक्षिपत्पुनः॥ 12-211-64(73588)
तन्सध्ये सागरान्सप्त ब्रह्माणं च तथा सुरान्।
पश्याम्यहं यथायोगं मातरं स्वकुलं तथा॥ 12-211-65(73589)
एवं मयाऽनुभूतं हि तत्वान्वेषणकाङ्क्षिणा।
शिबिकासदृशं मां वै पश्यध्वं मुनिसत्तमाः॥ 12-211-66(73590)
इत्येवमब्रवं विप्रान्भीष्म यन्मे पुराऽभवत्।
तत्ते सर्वं यथान्यायमुक्तवानस्मि सत्तम॥ 12-211-67(73591)
योगिनस्तं प्रपश्यन्ति ज्ञानं दृष्ट्वा परं हरिम्।
नान्यथा शक्यरूपोसौ ज्ञानगम्यः परः पुमान्॥ 12-211-68(73592)
अनन्यया च भक्त्या च प्राप्तुं शक्यो महाहरिः॥ 12-211-69(73593)
भीष्म उवाच। 12-211-70x(6083)
इत्येवमुक्त्वा भगवान्सुपर्णः पक्षिराट् प्रभुः।
आमन्त्र्य जननीं मे वै तत्रैवान्तरधीयत॥ 12-211-70(73594)
तस्माद्राजेन्द्र सर्वात्मा वासुदेवः प्रधानकृत्।
ज्ञानेन भक्त्या सुलभो नान्यथेति मतिर्मम॥' ॥ 12-211-71(73595)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकादशाधिकद्विशततमोऽध्यायः॥ 211॥
Mahabharata - Shanti Parva - Chapter Footnotes
* क्षयमध्यायो ध. पुस्क एव दृश्यते।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|